स्वात्म-स्थितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-संगः| प्रवृद्व - कलोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः |1| परैचिन्त्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः| स्तुत्योऽद्यमेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः|2| तत्याज शक्रः शकनाभिमांन नाहं त्यजामि स्तवनानुबन्धम्| स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरुपयामि|3| त्वं विश्र्वद्दश्र्वा सकलैरद्दश्यो विद्वानशेषं निखिलैरवेद्यः| वक्तुं कियान्कीद्दश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु|4| व्यापीडितं बालमिवात्म-दोषैरुल्लाघतां लोकमवापिपस्त्वम्| हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि बाल-वैद्यः|5| दाता न हर्ता दिवसं विवस्वानद्यश्र्व इत्यच्युत दर्शिताशः| संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय |6| उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्र्च दुःखम्| सदावदात-द्युतिरेकरुपस्तयोस्त्वमादर्श इवावभासि |7| अगाधताब्धेः स यतः पयोधिर्मेरोश्र्च तुंगा प्रक्रतिः स यत्र| द्यावाप्रथिव्योः प्रथुता तथैव व्याप त्वदीया भुवनान्तराणि|8| तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च| द्दष्टं विहाय त्वमद्दष्टमैषीर्विरुद्ध-व्रत्तोऽपि समञ्जसस्त्वम्|9| स्मरः सुदग्धो भवतैव तस्मिन्नुद् भूलितात्मा यदि नाम शम्भुः| अशेत व्रन्दोपहतोऽपि विष्णुः किं ग्रह्यते येन भवानजागः |10| स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैर्वनते गुणित्वम्| स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य|11| कर्मस्थितिं जन्तुरनेक-भूमिं नयत्यमुं सा च परस्परस्य| त्वंनेतृ-भावंहि तयोर्भवाब्धौ जिनेन्द्र नौ-नाविकयोरिवाख्यः|12| सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति| तैलाय वालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः|13| विषाप हारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च| भ्राम्यन्त्यहोन त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि|14| चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्र्चेतसि येन सर्वम्| हस्ते क्रतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तबाह्यः|15| त्रिकाल-तत्त्वंत्वमवैस्त्रिलोकी-स्वामीति संख्या-नियतेरमीषाम्| बोधाधिपत्यंप्रति नाभविष्यस्तेऽन्येऽपिचेद् व्याप्स्यदमूनपीदम्|16| नाकस्य पत्युः परिकर्म रम्यं नागम्यरुपस्य तवोपकारि| तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण|17| क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा-प्रतिकूल-वादः| क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते |18| तुगांत्फलं यत्तदकिञ्चनाच्च प्राप्यं सम्रद्धान्न धनेश्र्वरादेः| निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः|19| त्रैलोक्य-सेवा-नियमाय दण्डं दध्रे यदिन्द्रो विनयेन तस्य| तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म-योगाद्यदि वा तवास्तु|20 |